अकारान्तेति। अकारान्तमुत्तरपदं यस्येति विग्रहः। "स नपुंसक"मित्यस्यापवादः। पञ्चमूलीति। समाहारद्विगुः, स्त्रीत्वं, "द्विगोः" इति ङीप्।
आबन्तो वेति। "स्त्रियां वे"ति वक्तव्यमित्यर्थः। पञ्चखट्वमिति। समाहारद्विगुः। नपुंसकत्वे ह्यस्वः। पञ्चखट्वीति। उपसर्जनह्यस्वत्वे अदन्तत्वात्, "द्विगोः" इति ङीप्।
अनो नलोपश्चेति। "अन" इत्यावर्तते। एकं प्रथमया विपरिणतं द्विगुरित्यत्रान्वेति। तदन्तविधिः। अन्नन्तो द्विगुः स्त्रियां वा स्यात्, अनो नस्य लोपः स्यादित्यर्थः। वाग्रहणं स्त्रियामित्यत्रैव संबध्यते, न तु नलोपेऽपि तेन स्त्रीत्वाऽभावेऽपि नलोपः। पञ्चतक्षीति। पञ्चानां तक्ष्णां समाहार इति द्विगुः, स्त्रीत्वं नलोपः, "द्विगोः" इति ङीबिति भावः। पञ्चतक्षमिति। समाहारद्विगुः। स्त्रीत्वाऽभावपक्षे "स नपुंसक"मिति नपुंसकत्वं, नलोप इति भावः। न चान्तर्वर्तिर्नी विभक्तिमाश्रित्य तक्षन्शब्दस्य सुबन्तत्वेन पदत्वात् "न लोपः प्रातिपदिके"त्यनेन नलोपो भविष्यतीति वाच्यम् "उत्तरपदत्वे चे"ति प्रत्ययलक्षणनिषेधात्।
पात्राद्यन्तस्य नेति। पात्रादिर्गणः। तदन्तस्य समाहारद्विगोर्न स्त्रीत्वमिति वक्तव्यमित्यर्थः। पञ्चपात्रं त्रिभुवनं चतुर्युगमिति। स्त्रीत्वाऽभावे "स नपुंसक"मिति नपुंसकत्वमिति भावः।
पुण्येति। पुण्यसुदिनाभ्यां परो योऽहन्शब्दस्तदन्तस्य तत्पुरुषस्य नपुंसकत्वं वक्तव्यमित्यर्थः। "रात्राह्ने"त्यस्यापवादः। पुण्याहमिति। पुण्यम् अहरिति कर्मधारयः, "राजाहः" इति टच्, टिलोपः। "उत्तमैकाभ्यां चे"त्यत्यह्नादेशनिषेधः। सुदिनाहमिति। सुदिनम् अहरिति कर्मधारयः, टच्, टिलोपः। प्रशस्तपर्यायः सुदिनशब्द इति न पौनरुक्त्यम्।
पथः सङ्ख्याव्ययादेरिति। "नपुंसकत्वं वक्तव्य"मिति शेषः। संख्याव्ययेति समाहारद्वन्द्वः। संख्याव्ययमादिरिति कर्मधारयः, दिग्योगे पञ्चमी। पर इति शेषः। पथ इति कृतसमासान्तादकारान्तात्प्रथमा। तदाह--सङ्ख्याव्ययादेरिति। परवल्लिङ्गतापवादः। त्रिपथमिति। "ऋक्पूः" इति अप्रत्ययः, टिलोपः। एवं विपथमित्यपि। "प्रादयो गताद्यर्थे" इति समासः। सुपन्था अतिपन्था इति। "स्वती पूजाया"मिति समासः। "न पूजना"दिति समासान्तनिषेधः। आवश्यकत्वादनेन सिद्धे अपथं नपुंसक"मिति न कार्यम्।
सामान्ये नपुंसकमिति। न्यायसिद्धमेतत्, विशेष्यविशेषणसंनिधाने सति स्त्रीत्वपुंस्तवयोरनभिव्यक्तौ "उभयोरन्तरं यच्च तदभावे नपुंसक"मिति लक्षणलक्षितनपुंसकत्वस्यैव न्याय्यत्वात्।अत एव "दाण्डिनायने"ति सूत्रभाष्ये "एकश्रुतिः स्वरसर्वनाम, नपुंसकं लिङ्गसर्वनामे"त्युक्तम्। मृदु पचतीति। क्रियाविशेषणमिदं द्वितीयान्तम्। पचेर्हि विक्लित्त्यनुकूलव्यापारोऽर्थः। तत्र विक्लित्त्यंशे मृदुत्वमन्वेति। विक्लित्तिश्चव्यापारे साध्यत्वेनान्वेति। तथाच धातूपात्तव्यापारं प्रति कर्मीभूतेन विक्लित्त्यंशेन सामानाधिकरण्यान्मृद्विति द्वितीया। यत्र तु धात्वर्थः करणत्वेनान्वेति "यजेत स्वर्गकामः" इत्यादौ, तत्र हि यागेन स्वर्गं कुर्यादित्यर्थः। तत्र क्रियाविशेषणस्य तृतीयान्तत्वमेव "ज्योतिष्टोमेन यजेत स्वर्गकामः" इत्यादावित्यन्यत्र विस्तरः। प्रातः कमनीयमिति। रमणीयमित्यर्थः। अत्रापि "प्रात"रित्यव्ययस्य विशेष्यस्याऽलिङ्गत्वात्तद्विशेषणस्य कमनीयशब्दस्यानव्ययस्य लिङ्गविशेषावगमकत्वाऽभावान्नपुंसकत्वमेवेति भावः। इदं चाऽनियतलिङ्गविषयम्। तेन आदिं पचति, प्रातरादिरित्यत्र न भवति, आदिशब्दस्य नियतलिङ्गत्वात्।
आबन्तो वा। पञ्चखट्वमिति नपुंसकह्यस्वः। पञ्चखट्वीति। उपसर्जनह्यस्वस्वत्वे सत्यदन्तत्वात् "द्विगो"रिति स्त्रीत्वपक्षे ङीप्।
अनो नलोपश्च वा द्विगुः स्त्रियाम्। अनो नलोपश्चेति। "उत्तरपदत्वे चापदादिविधौ"इति प्रत्ययलक्षणप्रतिषेधादप्राप्ते नलोप इति भावः। इह वाशब्दः स्त्रियामित्यनेन संबध्यते, नतु पूर्वेण। तेन नित्यो नलोप इत्याह--पञ्चतक्षमित्यादि।
पात्राद्यन्तस्य न। पात्राद्यन्तस्येति। "स्त्रीत्व"मिति शेषः। आकृतिगणोऽयम्।
पुण्यसुदिनाभ्यामह्नः क्लीबतेष्टा। सुदिनाहमिति। प्रशस्तपर्यायः सुदिशब्दः, "सुदिनासु समासु कार्यमेतत्प्रविचिन्वीत विशेषतः स्वयं च"इत्यादिप्रयोगात्।
पथः सङ्ख्याव्ययादेः। पथः सङ्ख्याव्ययेति। संख्याव्ययरूपो य आदिस्तस्मादित्यर्थः। त्रपथं विपथमिति,---"ऋक्पूरब्धूः"इत्यप्रत्ययः। सुपन्थाः अतिपन्था इति। "न पूजना"दिति समासन्तनिषेधः। कथं तर्हि "व्यध्वो दुरध्वा विपथः तदध्वा कापथः समाः"इत्यमर इति चेत्, प्रमाद एवायमिति बहवः। मनोरमायां तु "पथे गतौ"इत्यस्मात्पचाद्यचि पथति व्याप्नोतीति व्युत्पादितः पथशब्दोऽस्ति। तथा च त्रिकाण्डशेषः---"वाटः पथश्च मार्गः स्या"दिति। तेन पथशब्देन समासे पुंस्त्वमुपपन्नम्। न चैवं विपथसिद्धावपि कापथो न स्यात्कादेशस्य दुर्लभत्वादिति वाच्यम्, "ईषदर्थे चे"ति तत्सम्भवात्, कुत्सायामर्थतः पर्यवसानादिति स्थितम्। केचित्तु---"पथः संख्ये"ति वार्तिके कृतसमासान्तस्यैव ग्रहणं न तु पचाद्यजन्तस्येत्यत्र बीजाऽभावाद्विपथः कापथ इति प्रयोगो दुरुपपाद एवेत्याहुः। अत्र माधवः--"परवल्लिङ्गापवादत्वात्तत्पुरुष एवेदं प्रवर्तते नान्यत्र। विपथा नगरी। बहुव्रीहिरयम्। पन्तानमतिक्रान्ता अतिपथा। इहापि न, "द्विगुप्राप्ते"त्यादिना परवल्लिङ्गतायाः प्रतिषेधादिति।
सामान्ये नपुंसकम्। सामान्ये नपुंसकमिति। अनियतलिङ्गविषयकमिदम्। तेनादिं पचति, प्रातरादिरिति पुंस्त्वमेव। मृदु पचतीति। क्रियाविशेषणत्वाद्द्वितीयान्तम्। धातुपात्तभावनां प्रति हि फलांशः कर्मीभूतः। तथा च फलसामानाधिकरण्येद्वितीया। अतएव सकृल्ल्वावित्यादौ कारकपूर्वकत्वाद्यण्। यत्र तु भावनां प्रति करणतया धात्वर्थविशेषोऽन्वेति तत्र तद्विशेषणानां तृतीयान्ततैव, "ज्योतिष्टोमेन यजेते"त्यत्र यथा। एतच्च "तरणे यजः" इति सूत्रे वृत्तिपदमञ्जर्योः स्पष्टम्।